SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। अनोऽस्य ।२।१।१०८। । डीस्याद्यघुदस्वरेऽनोऽस्य लुक् स्यात् । राज्ञी । राज्ञः ॥ १०८॥ ईडौ वा।२।१।१०९। ईकारे डौ च परेऽनोऽस्य लुग्वा स्यात् । सानी सामनी । राज्ञि राजनि ॥ १०९॥ षादिहन्धृतराज्ञोऽणि।२।१।११०। पादेरनोहनोधृतराज्ञश्चातोऽणिप्रत्यये लुक् स्यात् । औक्षणः। ताक्ष्णः। भौणघ्नः । धार्तराज्ञः ॥ ११० ॥ न वमन्तसंयोगात् ।२।१।१११। बान्तान्मान्ताच संयोगात्परस्यानोऽस्य लुम स्यात् । पर्वणा । कर्मणी ॥ १११॥ हनो होघ्नः ।२।१।११२ । हन्तेहों नः स्यात् । भ्रूणघ्नी । घ्नन्ति । ह्र इति किम् । वृत्रहणौ ॥११॥ लुगस्यादेत्यपदे ।२।१।११३। . अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । सः। पचन्ति। पचे। अपद इति किम् । दण्डाग्रम् ॥ ११३।। डित्यन्त्यस्वरादेः।२।१।११४। खराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डितिपरे लुक् स्यात् । मुनौ । साधौ । पितुः ॥ ११४ ॥ अवर्णादश्नोऽन्तो वाऽतुरी ड्योः ।।१।११५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy