________________
५६
हेमशब्दानुशासनस्य
इति किम् । द्विपायाम् । अणिक्यघुटीति किम् । पादयति । व्याघ्रपाद्यति । द्विपादौ ॥ १०२ ॥
उदच उदीच । २ । १ । १०३ ।
अणिक्यत्रुटि खरे उदच उदीच् स्यात् । उदीच्यः उदीची । अणिक्य घुटीत्येव । उदयति । उदच्यति । उदञ्चः । उदच इति किम् । नि मा. भूत् । उदञ्चा । उदञ्चे ॥ १०३ ॥
अच्च प्राग दीर्घश्च । २ । १ । १०४ ।
1
aforage स्वरादौ प्रत्ययेऽच चः स्यात् प्राक्स्वरस्य दीर्घः । प्राच्यः । दधीचा । अणिक्यघुटीत्येव । दध्ययति । दध्यच्यति । दध्यञ्चः । अचिति किम् । नि माभूत् । साध्वञ्चा ॥ १०४ ॥
1
क्वसुष्मतौ च । २ । १ । १०५ ।
अणिक्यत्रुटि स्वरे मतौ च प्रत्यये क्कम उष् स्यात् । विदुषः । विदुषा । विदुष्मान् । अणिक्यघुटीत्येव । विद्वयति । विद्वस्यति । विद्वांसः ॥ १०५ ॥
श्वन्युवन्मघोनो ङीस्याद्यघुटस्वरे
व उः। २ । १ । १०६ ।
ङयां स्याद्यघुट्स्वरे च श्वनादीनां व उः स्यात् । शुनः शुनी । अतियूनी । यूनः । मघोनी । मघोनः। ङीस्याद्यघुट्स्वर इति किम् । शौवनम् । यौवनम् । माघवनम् ॥ १०६ ॥
लुगातोऽनापः । २ । १ । १०७॥
आवर्जस्या तोडीस्याद्यघुट्स्वरे लुक् स्यात् । कीलालपः। हाहे देहि । अनाप इति किम् । शालाः ॥ १०७ ॥