SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य नाम्नोनोऽनह्नः।२।१ ९१ । पदान्ते नाम्नो नस्य लुक् स्यात् । स चेदह्रो न स्यात् । राजा । राजपुरुषः । अनह्न इति किम् । अहरेति ॥९१ ॥ नामन्त्र्ये ।२।१। ९२ । आमन्त्र्यार्थस्य नाम्नो नस्य लुक् न स्यात् । हे राजन् ॥ ९२॥ क्लीबे वा।२।१ । ९३। आमन्त्र्यार्थस्य नाम्नः क्लीबे नस्य लुग्वा स्यात् । हे दाम । हे दामन् ॥ ९३ ॥ मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः ।२।१। ९४। ____ मावर्गों प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच नाम्नः परस्य मतोर्मोवः स्यात् । किंवान् । शमीवान् । वृक्षवान् । मालावान् । अहर्वान् । भास्वान् । मरुत्वान् ॥ ९४ ॥ नाम्नि । २।१। ९५ । संज्ञायां मतोर्मोवः स्यात् । अहीवती मुनीवती नद्यौ ॥९५ ।। चर्मण्वत्यष्ठीवच्चक्रीवतकक्षीवद्रुम ण्वत् । २।१। ९६ । एते मत्वन्ताः संज्ञायां निपात्यन्ते । चर्मण्वती नाम नदी। अष्ठीवान जानुः । चक्रीवान खरः। कक्षीवान ऋषिः। रुमण्वान गिरिः ॥९६॥ उदन्वानब्धौ च ।२।१।९७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy