________________
५४०
हेमशन्दानुशासनस्य . एतावक्लेशार्थो वा द्विः स्याताम्,आदौ स्यादेः पिल्लुप्च। प्रियप्रियेण प्रियेण वा दत्ते । सुखसुखन मुखेन वा ऽधीत ॥ ८७ ॥ वाक्यस्य परिवर्जने । ७।४।८८।
वर्जनाओं वाक्यांशः परिर्वा द्विः स्यात् । परिपरि परि वा त्रिगर्नेभ्यो वृष्टो मेघः । वाक्यस्यति किम् । परित्रिगत्तं वृष्टो मेघः ॥८॥ सम्मत्यसयाकोपकुत्सनेष्वाद्यामन्त्र्यमादौ
स्वरेष्वन्त्यश्च प्लुतः।७।४।८९।
एतद्वृत्तेर्वाक्यस्यादिभूतमामन्त्र्यार्थ पदं द्विः स्यात् द्वित्वे चादौ स्वराणां मध्येऽन्त्यस्वरः प्लुतो वा स्यात् । माणवक ३ माणवक, माणवक माणवक आर्यः खल्वसि, रिक्तं ते आभिरूप्यम्, इदानीं ज्ञास्यसि जाल्म, रिक्ता ते शक्तिरिति वा । आदीति किम् । भव्यः खल्लसि माणवक ॥ ८९॥ .
भर्त्सने पर्यायेण ।७।४।९। कोपेन दण्डाविष्क्रिया मर्त्सनम्, तवृत्तेर्वाक्यस्य यदामन्त्र्यं पदं तद्द्विः स्यात्, द्विवे च क्रमेण पूर्वोत्तरपदयोः स्वरवऽन्त्यः प्लुतो वा स्यात् । चौर ३ चौर चौर चौर ३ चौर चौर, घातयिष्यामि त्वाम् ॥ त्यादेः साकाङ्क्षस्याङ्गेन ।७।४।९१।
भर्त्सनार्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्गन युक्तस्यांशः प्लुतो वा स्यात् । अङ्गकूज ३ अङ्ग कूज, इदानीं ज्ञास्यसि जाल्म । साकाङ्क्षस्येति किम् । अङ्ग पच ॥९१ ।।
क्षियाशीः प्रैषे।७।४।९२। क्षिया आचारद्धेष, एतद्वृत्तवाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य वाक्यान्तराकाङ्क्षस्यांशः प्लुतो वा स्यात् । स्वयं हि रथेन याति ३