SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५३८ हेमशब्दानुशासनस्य प्राग् द्विः स्यात् । लुनीहि लुनीहीत्येवायं लुनाति । भोजं याति । प्रपचति प्रपचति ॥ ७३ ॥ नानावधारणे । ७ । ४।७४। नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो द्विः स्यात् । अस्मात्कापणादिह भवद्भ्यां माषं २ देहि ॥ ७४ ॥ आधिक्यानुपूर्व्यं । ७ । ४ । ७५ । एतद्वृत्ति द्विः स्यात् । नमोनमः । मूले २ स्थूलाः ॥ ७५ ॥ डतरडतमौ समानां स्त्रीभावप्रश्ने । ७।४।७६ । केनचिद् गुणेन तुल्यानां स्त्रीलिङ्गभावस्य प्रश्न वर्त्तमानो डतरडतमान्तो द्विः स्यात् । उभाविमावाढ्यौ । कतराकतरा अनयोराढ्यता । कतमाकतमा एषामाढ्यता । भावेति किम् । उभाविमौ लक्ष्मीवन्तौ । कतरानयोर्लक्ष्मीः ॥ ७६ ॥ पूर्वप्रथमावन्यतोऽतिशये । ७।४। ७७ । एतौ स्वार्थस्यान्यतः प्रकर्षे द्योत्ये द्विः स्याताम् । पूर्वपूर्वं पुष्पन्ति । प्रथमंप्रथमं पच्यन्ते ॥ ७७ ॥ प्रोपोत्सम्पादपूरणे । ७ । ४। ७८ । एते द्विः स्युश्चेत्पादः पूर्यः । प्रप्रशान्तकषायाने, रुपोपप्लववर्जितम् । उदुज्ज्वलं तपो यस्य, संसंश्रयत तं जिनम् ॥ ७८ ॥ सामीप्येऽधोऽध्युपरि । ७ । ४। ७९। एते सामीप्येऽर्थे द्विः स्यात् । अधोऽवः, अध्यधि उपर्युपरि ग्रामम् ॥ वीप्सायाम् । ७।४।८० । अस्यां वर्त्तमानं द्विः स्यात् । वृक्षं २ सिञ्चति । ग्रामो २ रम्यः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy