SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ५३७ एतदन्तस्यापदस्य तद्धिते लुक् स्यात् । दाक्षिः । चौडिः। नाभेयः। दौलयः। अपदस्येति किम् । ऊर्णायुः ॥६८॥ अकद्रूपाण्ड्वोरुवर्णस्यैये।७।४।६९। एतद|वर्णान्तस्य एये तद्धिते लुक् स्यात् । जाम्बयः। कव्वादिवर्जनं किम् । कावेयः । पाण्डवेयः ॥ ६९ ॥ अस्वयम्भुवोऽव । ७।४। ७० । स्वयंभूव|वर्णान्तस्यापदस्य तद्धितेऽव् स्यात् । औपगवः । अस्वयम्भुव इति किम् । स्वायम्भुवः ॥ ७० ॥ ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इक स्येतो लुक् । ७।४।७१। ऋवर्णोवर्णान्ताभ्यां दोस इमुसन्ताभ्यां शश्वदकस्मादर्जतान्ताच्च परस्येकस्थस्येतो लुक् स्यात् । मातृकम् । नैषाहकर्षुकः । दौष्कः । सार्पिष्कः । धानुष्कः । औदश्वित्कः । शश्वदकस्मादर्जनं किम् । शाश्वतिकम् । आकस्मिकम् ॥ ७१ ॥ असकृत्संभ्रमे । ७।४।७२। भयादिभिः प्रयोक्तुस्त्वरणे द्योत्ये पदं वाक्यं वाऽसकृत्प्रयोज्यम् । अहिरहिहिः। हस्त्यागच्छति हस्त्यागच्छति। लघुपलायध्वं लघुपलायध्वम्।। भृशाभीक्ष्ण्याऽविच्छेदे द्विः प्राक्तम बादेः। ७।४।७३। क्रियाया अवयवक्रियाणां कात्न्यं भृशार्थः, पौनःपुन्यमाभीक्ष्ण्यम्, क्रियान्तराव्यवधानमविच्छेदः, एषु द्योतेषु पदं वाक्यं वा तमबादेः
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy