SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ५३६ हैमशब्दानुशासनस्य कलापिकुथुमितैतलिजाजलिलाङ्गलिशिखण्डिशिलालिसब्रह्मचारिपीठसर्पि सूकरसद्मसुपर्वणः।७।४।२। एषामपदानां तद्धिते ऽन्त्यस्वरादेर्लुक् स्यात् । कालापाः। कोथुमाः। तैतलाः । जाजलाः। लाङ्गलाः। शेखण्डाः । शैलालाः । साब्रह्मचाराः। पैठसर्पाः । सौकरसद्माः। सौपर्वाः ॥ ६२॥ वाश्मनो विकारे।७।४।६३। अस्यापदस्य विकारार्थे तद्धितेऽन्त्यस्वरादे क् स्यात् वा। आश्मः। आश्मनः ॥ ६३ ॥ चर्मशनः कोशसङ्कोचे । ७।४।६४। अनयोरपदयोर्यथासङ्ख्यं कोशे सङ्कोचे चार्थे तद्धितेऽन्त्यस्वरादेलक् स्यात् । चार्मः कोशः । शौवः सङ्कोचः ॥ ६४ ॥ प्रायोऽव्ययस्य । ७।४।६५। अपदस्यास्य तद्धिते ऽन्त्यस्वरादेः प्रायोलुक् स्यात् । सौवः । प्रायः किम् । आरातीयः ॥६५॥ अनीनादट्यहोऽतः ।७।४।६६। इनादट्वर्जे तद्धितेऽपदस्याऽहोतो लुक स्यात् । आह्नम् । अनीनादटीति किम् । द्वयहीनः । प्रत्यहम्। यहः ॥ ६६ ॥ विंशतेस्तेर्डिति । ७।४।६७। अस्यापदस्य तेर्डिति तद्धिते लुक् स्यात् । विंशकः पटन॥६७॥ अवर्णवर्णस्य । ७।४।६८।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy