________________
५३५
स्वोपज्ञलधुवृत्तिः। संयोगात्परोय इन् तदन्तस्याऽण्यन्त्यस्वरादेलुंग न स्यात्। शांखिनः॥ गाथिविदथिकेशिपणिगणिनः।७।४।५४।
एषामण्यन्त्यस्वरादेर्लुम्न स्यात् । गायिनः । वैदथिनः । केशिनः । पाणिनः। गाणिनः पुत्रः ॥ ५४ ॥
अनपत्ये । ७।४।५५। इन्नन्तस्याऽनपत्यार्थे ऽण्यन्त्यस्वरादे ग न स्यात् । सांराविणम् ॥
उक्ष्णोर्मुक् ।७।४। ५६ । - उक्ष्णोऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । औक्ष पदम् । अनपत्यइत्येव । औषणः ॥५६॥ .. ब्रह्मणः । ७।४।५७। अस्याऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । ब्राह्ममस्त्रम् ॥ ५७ ॥
जातौ । ७।४।५८ । ब्रह्मणो जातावर्थेऽनपत्ये ऽण्यन्त्यस्वरादेलक स्यात् । ब्राह्मी औषधिः । अपत्येतु ब्राह्मणः। जाताविति किम् । ब्राह्मो नारदः॥ ५८॥
अचर्मणो मनोऽपत्ये । ७।४।५९।
चर्मन्वर्जमन्नन्तस्याऽपत्यार्थे ऽण्यन्त्यस्वरादेर्लुक् स्यात् । सौषामः । अचर्मण इति किम् । चाकवर्मणः ॥ ५९ ॥
हितनाम्नो वा ।७।४।६०। अस्याऽपत्यार्थे ऽण्यन्त्यस्वरादे ग्वा स्यात् । हैतनामः । हैतनामनः।। नोऽपदस्य तद्धिते । ७।४।६१। नन्तस्याऽपदस्य तद्धिते परेऽन्त्यस्वरादेलक स्यात् । मैधावः । अपदस्येति किम् । मेधा विरूप्यम् ॥ ६१॥