________________
५३४
हैमशब्दानुशासनस्य एकस्वरस्य योन्त्यस्वरादिरंशस्तस्येग्नि ग्यादौ च लुक् न स्यात् । स्रजयति । सजिष्ठः । सजीयान् ॥ ४४ ॥
दण्डिहस्तिनोरायने । ७।४।४५।
अनयोरायनप्रत्ययेऽन्त्यस्वरादे ग् न स्यात् । दाण्डिनायन। हास्तिनायनः ॥४५॥ वाशिन आयनौ । ७।४।४६ । अन्त्यस्वरादेर्छम स्यात् । वाशिनायनिः ॥ ४६॥ एये जिह्माशिनः। ७।४।४७॥ अन्त्वस्वरादेर्लुम स्यात् । जैमाशिनेयः ॥ ४७ ॥ ईनेऽध्वात्मनोः। ७।४।४८। अन्त्यस्वरादेर्लुग्न स्यात् । अध्वनीनः। आत्मनीनः ॥ ४८॥
इकण्यथर्वणः । ७।४।४९। अन्त्यस्वरादे म स्यात् । आथर्वणिकः ॥ ४९॥
यूनोऽके। ७।४।५० । अन्त्यस्वरादे न स्यात् । यौवनिका ॥ ५० ॥
अनोऽट्ये ये। ७।४। ५१ । अन्नन्तस्य ट्यवर्जे यादावन्त्यस्वरादेर्लुग्न स्यात् । सामन्यः । वैमन्यः । मूर्धन्यः अट्य इति किम् । राज्यम् ॥ ५१ ॥
. अणि । ७।४।५२ । अनन्तस्याऽण्यन्त्यस्वरादे ग न स्यात् । सौत्वनः ॥ ५२ ॥
संयोगादिनः। ७।४।५३ ।