SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ५३३ प्रियादीनां यथासंभव मिमनि प्यादौ च यथासङ्ख्यमेते स्युः । प्रेमा । प्रापयति । प्रेष्ठः । प्रेयान् । स्थेमा | स्थापयति । स्थेष्ठः। स्थेयान् । स्फापयति । वरिमा । गरिमा । वंहिमा । त्रपिमा । द्राघिमा । वर्षिमा । वृन्दमा ॥ ३८ ॥ पृथुम्मृदुभृशकृशदृढपरिवृढस्य ऋतो रः । ७ । ४ । ३९ । एषामृतइनि ण्यादौ च रः स्यात् । प्रथिमा । प्रथयति । प्रथिष्ठः । प्रथीयान् । एवं प्रदिमा । भ्रशिमा । ऋशिमा । द्रढिमा । परिवढिमा ॥ बहोर्णीष्ठे भूय् । ७ । ४ । ४० । भूययति । भूयिष्ठः ॥ ४० ॥ भूर्लुक्चेवर्णस्य । ७ । ४ । ४१ । बहोरीयसाविम्नि च भूः स्यात् । लुक् चा ऽनयोरिवर्णस्य । भूयान् । भूमा ॥ ४१ ॥ स्थूलदूरयुवहखक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः । ७ । ४ । ४२ । एषामिम्नि प्यादौ चान्तस्थादेरंशस्य लुक् स्यात् । नामिनश्च गुणः । स्थवयति । स्थविष्ठः । स्थवीयान् । एवं दवयति । यवयति । यविष्ठः । 'इसिमा । क्षेपिमा । क्षोदिमा ॥ ४२ ॥ त्र्यन्तस्वरादेः । ७ । ४ । ४३ । तुरन्त्यस्वरादेवांशस्येम्नि ण्यादौ च लुक् स्यात् । करयति । करिष्ठः । करीयान् । पटिमा । पटयति । पटिष्ठः । पटीयान ॥ ४३ ॥ नैकस्वरस्य । ७ । ४ । ४४।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy