SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ५३२ हैमशन्दानुशासनस्य एते तमबाद्यन्ताः कृततिकादिलुको वा निपात्या। अन्तमः। अन्तिकतमः । अन्तितमः । अन्तिकतमः । अन्तितः। अन्तिकतः । अन्तियः। अन्तिक्यः । अन्तिषद् । अन्तिकसद् ॥ ३१ ॥ विन्मतोर्णीष्ठेयसौलुप् ।७।४।३२। विन्मत्वोरेषु लुए स्यात् । स्रजयति । स्रजिष्ठः । स्रजीयान् । त्वचयति । त्वचिष्ठः । स्वचीयान् ॥ ३२ ॥ अल्पयूनोः कन्वा । ७।४। ३३ । अनयोष्ठेियसुषु कन्वा स्यात् । कनयति । कनिष्ठः । कनीयान् । अल्पयति । अल्पिष्ठः । अल्पीयान् । यवयति । यविष्ठः। यवीयान ॥३३॥ प्रशस्यस्य श्रः। ७।४।३४। अस्य ण्यादौश्रः स्यात् । श्रयति । श्रेष्ठः । श्रेयान् ॥ ३४ ॥ वृद्धस्य च ज्यः । ७।४। ३५। अस्य प्रशस्यस्य च ण्यादौ ज्यः स्यात् । ज्ययति । ज्येष्ठः ॥३५॥ ज्यायान् । ७।४।३६ । ज्यादेशात्परस्येयसोरीत आ निपात्यः । ज्यायान् ॥ ३६ ॥ बाढान्तिकयोः साधनेदौ।७।४। ३७। अनयोादौ यथासङ्ख्यमेतौ स्याताम् । साधयति । साधिष्ठः । साधीयान् । नेदयति । नेदिष्ठः । नेदीयान् ॥ ३७॥ प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवंहत्र पद्राघवर्षवृन्दम् । ७।४।३८।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy