SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः ५३१ हृदाधन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेर्वृद्धिः स्यात्। णिति तद्धिते । सौहाईम् । सौभाग्यम् । साक्तुसैन्धवः ॥२५॥ प्राचां नगरस्य । ७।४।२६ । प्राग्देशार्थस्य नगरान्तस्य णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः स्यात् । सौमनागरः । प्राचामिति किम् । माडनगरः ॥ २६॥ अनुशतिकादीनाम् । ७।४।२७। एषां णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेर्वृद्धिः स्यात् । आनुशातिकम् । आनुहौडिकम् ॥ २७॥ देवतानामात्वादौ । ७।४।२८। __ . आत्वविषये देवतार्थानां पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः स्यात् । णिति तद्धिते । आमावैष्णवं सूक्तम्। आत्वादाविति किम्। ब्राह्मप्रजापत्यम् ॥२८॥ आतो नेन्द्रवरुणस्य । ७।४।२९। .. आदन्तात्पूर्वपदात्परस्येन्द्रस्य वरुणस्य चोत्तरपदस्य स्वरेष्वादेवृद्धिन स्यात् । आग्नेन्द्रं सूक्तम् । ऐन्द्रावरुणम् । आतइति किम् । आग्निवारुणम् ॥ २९॥ सारवैश्वाकमैत्रेयौणहत्यधैवत्यहि रण्मयम् । ७।४।३० । एतेऽणाद्यन्ता अय् लोपादौ निपात्याः । सारखं जलम् । ऐक्ष्वाकः । मैत्रेयः। भ्रौणहत्यम् । धैवत्यम् । हिरण्मयम् ॥ ३० ॥ वान्तमान्तितमान्तितोऽन्तियान्ति षत् । ७।४।३१।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy