SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य अर्द्धात्परिमाणस्याऽनतो वात्वादेः | ७|४|२०| अर्द्धात्परस्य परिमाणार्थस्य स्वरेष्वादेरद्वर्जस्वरस्य णिति तद्धिते वृद्धिः स्यात् । वात्वस्य । अर्द्धकौडविकम् । आर्द्धकौडविकम् । अनत इति किम् । अर्द्धप्रस्थिकम् | आर्द्धप्रस्थिकम् ॥ २० ॥ प्राद्वाणस्यैये । ७।४।२१ । ५३० प्रात्परस्य वाणस्य एये ञ्णिति तद्धिते खरेष्वादेर्वृद्धिः स्यात् । प्रस्य तु वा । प्रवाहणेयः । प्रावाहणेयः ॥ २१ ॥ एयस्य । ७ । ४ । २२ । यान्तशात्प्रात्रस्य वाहणस्य णिति तद्धिते स्वरेष्वादेर्वृद्धिः स्यात् । प्रस्य तु वा । प्रवाहणेयः । प्रावाहणेयिः ॥ २२ ॥ नञः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः । ७ । ४ । २३ । नञः परेषां एषां ञ्णिति तद्धिते खरेष्वादेर्वृद्धिः स्यात् । नञस्तु वा । अक्षैत्रज्ञम् । आक्षैत्रज्ञम् । अनैश्वरम् । आनैश्वरम् । अकौशलम् । आकौशलम् । अचापलम् | आचापलम् । अनैपुणम् । आनैपुणम् । अशौचम् | आशौचम् ॥ २३ ॥ जङ्गलधेनुवलजस्योत्तरपदस्य तु वा । ७ । ४ । २४ । एतदुत्तरपदानामादेः पूर्वपदस्य स्वरेष्वादेर्नित्यं वृद्धिः स्यात् । वातूत्तरपदस्य ञ्णिति तद्धिते । कौरुजङ्गलः । कौरुजाङ्गलः । वैश्वधेनवः वैश्वधैनवः । सौवर्णवलजः । सौवर्णवालजः ॥ २४ ॥ हृद्भगसिन्धोः । ७ । ४ । २५ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy