SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। सुसा द्राष्ट्रस्य । ७।४।१५ । एभ्यः परस्य राष्ट्रार्थोत्तरपदस्य णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्द्धपाञ्चालकः ॥१५॥ अमद्रस्य दिशः।७।४।१६। दिगर्थात्परस्य मद्रवर्जराष्ट्रार्थस्य णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् । पूर्वपाञ्चालिकः । अमद्रस्येति किम् । पौर्वमद्रः ॥ १६ ॥ . प्राग्ग्रामाणाम् । ७।४।१७। प्रागदेशे ग्रामार्थानां योऽशो दिगर्थस्ततः परस्यांशस्य दिशः परेषां च प्राग्रामार्थानां णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् । पूर्वकार्णमृतकः । पूर्वकान्यकुब्जः ॥ १७ ॥ सङ्ख्याधिकाभ्यां वर्षस्याऽभा विनि। ७।४।१८। सङ्ख्यार्थादधिकाच्च परस्य वर्षस्व णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् । न चेत्तद्धितो भाविन्यर्थे । द्विवार्षिकः । अधिकवार्षिकः । अभाविनीति किम् । दैवर्षिकं धान्यम् ॥ १८॥ मानसंवत्सरस्याशाणकुलिजस्याऽ नाम्नि । ७।४।१९। सङ्ख्यार्थाधिकाभ्यां परस्य शाणकुलिजवर्जस्य मानार्थस्य संवत्सरस्य च णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यादनाम्नि। द्विकौडविकः । अधिककौडविकः । द्विसांवत्सरिकः । अशाणलिजस्येति किम् । दैशाणम् । द्वैकुलिजिकः । अनाम्नीति किम् । पाञ्चलोहितिकम् ॥ १९॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy