________________
स्वोपज्ञलघुवृत्तिः
अहः।२।१।७४। अह्नः पदान्तेरुः स्यात् । हे दीर्घाहो निदाघ । दीर्घाहा निदाघः॥
रोलुप्यरि ।२।१।७५। अरेफे परे पदान्त अह्नोलुपि सत्यां रः स्यात् । अहरधीते । अहर्दत्त । लुपीति किम् । हेदी_होत्र।अरीति किम्।अहोरूपम् ॥७॥
धुटस्तृतीयः ।२।१। ७६। पदान्ते धुटा तृतीयः स्यात् । वाग् । वाग्भिः । अभिः ॥ ७६ ।। गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्वोश्चप्रत्यये ।२।१।७७॥ गडदबादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेश्चतुर्थःस्यात्। पदान्ते सादौ ध्यादौ च प्रत्यये। पर्णघुट् । तुण्डिभमाचक्षाणः तुण्ढिप् । एवं गर्द्धप् । धर्मभुत् । निघोक्ष्यते । न्यध्वम् । धोक्ष्यत । अधुग्ध्वम् । भोत्स्यते । अभुद्धम् । गडदवादेरिति किम् । अजञ्जए । एकस्वरस्येति किम् । दामलिट् ॥ ७७॥
धागस्तथोश्च । २।१।७८ । धागश्चतुर्थान्तस्य दादेरादेर्दस्य तथोः सध्वोश्च प्रत्यययोः परयो श्चतुर्थः स्यात् । धत्तः। धत्थः। धत्से ।धद्धे । तथोश्चेति किम् । दध्वः।चतुर्थान्तस्येत्येव । दधाति ॥ ७९ ॥ ..
अधश्चतुर्थात् तथोधः ।२।१। ८९।
चतुर्थात्परयोर्धारूपवर्जाद्धातोर्विहितयोस्तथोर्धः स्यात् । अदुग्ध । अदुग्धाः।अलब्ध। अलब्धाः । अघ इति किम् । धत्तः। धत्थः। विहित- . विशेषणं किम् । ज्ञानभुत्त्वम् ॥ ७९ ॥