SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५२७ स्वोपज्ञलप्रवृत्तिः। - अहम ..... वृद्धिःस्वरेष्वादेणिति तद्धिते।७४।१। त्रिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आद्यस्वरस्य वृद्धिः स्यात् । दाक्षिः । भार्गवः। तद्धितइति किम् । चिकीर्षकः ॥ १॥ केकयमित्रयुप्रलयस्य यादेरिय् च।७४।२। एषां णिति तछिते स्वरेवादेः स्वरस्य वृद्धिर्यादेश्चांशस्येय स्यात् । कैकेयः। मैत्रेयिकया श्लाघते । प्रालेयं हिमम् ॥२॥ देविकाशिंशपादीर्घसघश्रेयसस्तत् प्राप्तावाः । ७।४।३। एषां स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिप्राप्तावाः स्यात् । दाविकंजलम् । शांशपः स्तम्भः । दार्घसत्रम् । श्रायसं द्वादशाङ्गम् । तत्प्राप्ता विति किम् । सौदेविकः ॥ ३ ॥ - वहीनरस्यैत् । ७।४।४। अस्य गिति तद्धिते स्वरेष्वादेः स्वरस्यैः स्यात् । वैहीनरिः ॥४॥ य्वः पदान्तात्पागदौत् । ७।४।५। णिति तद्धिते इवों वर्णयोवृद्धिप्राप्तौतयोख स्थाने यौवौ पदान्तौ ताम्यां प्राक् यथासङ्ख्यमैदौतौ स्याताम् । नैयायिकः। सौवश्वः । पदान्तादिति किम् । यत इमे याताः॥५॥ द्वारादेः । ७।४।६। एषां यौ यो तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ ताभ्यामेव प्रामैदौतौ स्यातां णिति तद्धिते । दौवारिकः । सौवरो ग्रन्थः॥६॥ न्यग्रोधस्य केवलस्य ।७।४।७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy