SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ७ ५२४ हैमशब्दानुशासनस्य खरखुरानासिकाया नस् । ७।३।१६०। आभ्यां परस्या नासिकाया बहुव्रीही नस्स्यात् । नाम्नि । खरणाः। खुरणाः ॥ १६०॥ अस्थूलाच्च नसः। ७।३।१६१ । स्थूलवर्जात्खरखुराभ्यां च परस्या नासिकाया बहुव्रीहौ नसः स्यात् । नाम्नि।गुणसः। खरणसः। खुरणसः। अस्थूलादिति किं स्थूलनासिकः॥ उपसर्गात् । ७।३।१६२ । अस्मात् परस्या नासिकाया बहुव्रीहौ नसः स्यात् । मणसं मुखम् ॥ वेः खखग्रम । ७।३। १६३।। वेरुपसर्गात्परस्या नासिकाया बहुव्रीहावेते स्युः । विखुः । विखः । विग्रः ॥ १६३ ॥ जायाया जानिः ।७।३।१६४। जायाशब्दस्य जानिर्बहुव्रीहौ स्यात् । युवजानिः ॥ १६४॥ . व्युदः काकुदस्य लुक् ।७।३।१६५। आभ्यां परस्यास्य बहुव्रीही लुक् स्यात् । विकाकुन् । उत्काकृत् ॥ पूर्णाद्वा । ७।३।१६६ । पूर्णात्परस्य काकुदस्य बहुव्रीहौ लुग् वा स्यात् । पूर्णकाकुत् । पूर्णकाकुदः ॥ १६६ ॥ ककुदस्यावस्थायाम् । ७।३।१६७ अस्य बहुव्रीही वयसि गम्ये लुक् स्यात् । पूर्णककुयुवा अककुदबालः ॥ १६७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy