________________
५२२
हेमशब्दानुशासमस्प अल्पार्थो योगन्धस्तदन्ताबहुव्रीहोरद वा स्यात् । सूपगन्धि सूपगन्धं भोजनम् ॥ १४६ ॥
वोपमानात् । ७।३।१४७। उपमानात्परो यो गन्धस्तदन्तादहबीहेरिद वा स्यात्। उत्पलगन्धि। उत्पलगन्धं मुखम् ॥ १४७॥
पात्पादस्याऽहस्त्यादेः।७।३।१४८। .
हस्त्यादिवर्जादुपमानात्परस्य बहुव्रीहौ पादस्य पाद स्यात् । व्याघ्पात् । अहस्त्यादेरिति किस् । हस्तिपादः। अश्वपादः ॥ १४८॥
कुम्भपद्यादिः । ७।३।१४९। एते कृतपदन्ताङयन्ता एव बहुव्रीहयो निपात्या। कुम्भपदी। जाल पदी ॥ १४९ ॥
सुसङ्ख्यात् । ७।३। १५० ।
सोः संख्यायाश्च परस्य पादस्य बहवीही पातू स्यात् । सुपाद । दिपात् ॥ १५०॥ वयसि दन्तस्य दतः । ७।३। १५१ ।
सुपूर्वस्व सङ्ख्यापूर्वस्य च दन्तस्य बहुव्रीही वयसि गम्ये दतः स्यात्। सुदन कुमारः। द्विदन बालः । वयसीति किम् । सुदन्तः ॥ १५१ ॥
स्त्रियां नाम्नि । ७।३।१५२।
बहुव्रीही स्त्रियां नाम्नि दन्तस्य दतः स्यात् । अयोदती। स्त्रियामिति किम् । वदन्तः ॥ १५२॥
श्यावाऽरोकाद्वा । ७।३।१५३ ।