SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ५२१ भृतिप्रत्ययान्मासादिकः।७।३।१४०। भृत्यर्थाद्यः प्रत्ययस्तदन्तात्परोयोमासस्तदन्ताबहुव्रीहेरिकः स्यात्। पञ्चको मासोऽस्य पञ्चकमासिकः । मासादिति किम् । पञ्चकदिवसकः ।। द्विपदाद्धर्मादन् । ७।३।१४१ । धर्मान्ताविपदाबहुव्रीहेरन् स्यात् । साधुधर्मा। द्विपदादिति किम् । परमस्वधर्मः ॥ १४१॥ सुहरिततृणसोमाज्जम्भात् । ७।३।१४२। एभ्यः परो यो जम्भस्तदन्ताबहुव्रीहेरन् स्यात् । सुजम्मा । हरितजम्मा । तृणजम्मा । सोमजम्भा ना ॥ १४२॥ दक्षिणेर्मा व्याधयोगे।७।३।१४३। अयं बहुव्रीहिरन्नन्तो निपात्यः । व्याधेन योगे सति । ईम बहुव्रणं था। दक्षिणेर्मा मृगः।व्याधयोगइति किम् । दक्षिणेमः पशुः ॥ १४३ ॥ सुपूत्युत्सुरभेर्गन्धादिद्गुणे।७।३।१४४। एभ्यः परोगुणार्थो यो गन्धस्तदन्तादहुव्रीहेरित् स्यात् । सुगन्धि । पूतिगन्धि। उद्गन्धि । सुरभिगन्धि द्रव्यम् । गुणइति किम । द्रव्ये सुगन्ध आपणिकः॥ १४४ ॥ वागन्तौ । ७।३।१४५। स्वादिभ्यः पर आहार्यगुणार्थो यो गन्धस्तदन्तादहुव्रीहेरिद्वा स्यात् । सुगन्धिः सुगन्धो वा कायः। एवं पूतिगन्धिः । पूतिगन्धः । उद्गन्धिः । उदन्धः । सुरभिगन्धिः । सुरभिगन्धः ॥ १४५ ।। वाल्पे । ७।३।१४६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy