________________
हैमशब्दानुशासनस्य
भान्नेतुः । ७ । ३ । १३३ ।
नक्षत्रार्थात्परो यो नेता तदन्ताद्बहुव्रीहेरप् स्यात् । मृगनेत्रा निशा ॥ नाभेर्नाम्नि । ७ । ३ । १३४ ।
नाभ्यन्तादीर्नाम्यप् स्यात् । पद्मनाभः। नानीति किम् । विकसितवारिजनाभिः || १३४॥
नञबहोर्ऋचो माणवचरणे । ७ । ३ । १३५ |
आभ्यां परो यो ऋक् तदन्ताद्बहुव्रीहेरप् स्यात् । यथासङ्ख्यं माणवे चरणे चार्थे । अनृचो माणवः । बहवृचश्चरणः । माणवचरणइति किम् । अनुकं साम । बहूवृक्कं सूक्तम् ॥ १३५ ॥
नञसुदुर्भ्यः सक्तिसक्त्थिहलेर्वा । ७।३।१३६ ।
५२०
नञादेः परो यः सक्त्यादिस्तदन्ताद्बहुव्रीहेरप् स्यात् । असक्तः । असक्तिः । मुसक्तः । सुसक्तिः । दुःसक्तः । दुःसक्तिः । एवमसक्त्थः । असक्त्थिः । अहलः । अहलिः ॥ १३६ ॥
प्रजाया अस । ७ । ३ । १३७। नत्रादिपूर्वपदात्प्रजान्ताद्बहुव्रीहेरस् स्यात् । अप्रजाः । सुप्रजाः। दुःप्रजाः ।। १३७ ॥
मन्दाल्पाच्च मेधायाः । ७ । ३ । १३८ । र
आभ्यां नञादिभ्यश्च परो यो मेधाशब्दस्तदन्तात् बहुव्रीहेरस्स्यात् । मन्दमेधाः । अल्पमेधाः । अमेधाः । सुमेधाः । दुर्मेधा ना ॥ १३८ ॥
जातेरीयः सामान्यवति । ७ । ३ । १३९ ।
जात्यन्ताद्बहुव्रीहेरीयः स्यात् । सामान्याश्रयेऽन्यपदार्थे । ब्राह्मणजातीयः । सामान्यवतीति किम् । बहुजातिमः ॥ १३९॥