________________
स्वोपज्ञलघुवृत्तिः। खागार्थों यौ सक्थ्यक्षी तदन्ताबहुव्रीहेष्टः स्यात् । दीर्घसक्थी। स्वक्षी । स्वाङ्गइति किम् । दीर्घसक्थ्यनः ॥ १२६ ॥
द्वित्रेर्मो वा । ७।३। १२७।
आभ्यां परो यो मूर्दा तदन्ताबहुव्रीहेष्टो वा स्यात् । दिमूर्द्धः । छिमूर्द्धा । त्रिमूर्द्धः । त्रिमूर्खा ॥ १२७॥ प्रमाणीसङ्ख्याड्डः।७।३।१२८।
प्रमाण्यन्तात्सङ्खगर्थाच्च बहुव्रीहेर्ड स्यात् । स्त्रीप्रमाणाः कुटुम्बिनः। वित्राः ॥ १२८॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरणीपदाऽजपदप्रोष्ठपदभद्रपदम्।७।३।१२९।
एते बहुव्रीहयो डान्ता निपात्याः । सुपातो ना । सुश्वः। सुदिवः । शारिकुक्षः । चतुरस्रः । एणीपदः । अजपदः । प्रोष्ठपदः । भद्रपदः ॥ पूरणीभ्यस्तत्प्राधान्येऽप्।७।३।१३०।
पूरणप्रत्ययान्ता या स्त्री तदन्ताबहुव्रीहेरप् स्यात्। पूरण्याः प्राधान्ये समासार्थत्वे सति कल्याणीपञ्चमा रात्रयः । तत्त्राधान्यइति किम् । कल्याणपञ्चमीकः पक्षः ॥ १३०॥
नसुव्युपत्रेश्चतुरः। ७।३।१३१ । __एभ्यो यश्चत्तास्तदन्ताबहुव्रीहेरप् स्यात् । अचतुरः । सुचतुरः । विचतुरः । उपचतुराः। त्रिचतुराः ॥ १३१॥
अन्तर्बहिर्त्या लोम्नः।७।३।१३२।
आभ्यां परो यो लोमा तदन्ताबहुव्रीहेरप् स्यात् । अन्तर्लोमः । बहिर्लोमः प्रावारः ॥ १३२॥