SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य । एभ्यः सर्वशादेश्व परो यो रात्रिस्तदन्तात्तत्पुरुषादत् स्यात् । सङ्ख्यातरात्रः । एकरात्रः । पुण्यरात्रः । वर्षारात्रः । दीर्घरात्रः । सर्वरात्रः । पूर्वरात्रः । द्विरात्रः । त्रिरात्रः । अतिरात्रः ॥ ११९ ॥ ५१८ पुरुषायुषद्विस्तावत्रिस्तावम् । ७ । ३ । १२० । एते तत्पुरुषा अदन्ता निपात्याः । पुरुषायुषम् । द्विस्तावा । त्रिस्तावा वेदिः ॥ १२० ॥ श्वसो वसीयसः । ७ । ३ । १२१ । श्वसः परो यो वसीयांस्तदन्ता सत्पुरुषादत् स्यात् । श्वोवसीय सम् ॥ १२१ ॥ निसश्च श्रेयसः । ७ । ३ । १२२ । निसः श्वसश्च परो यः श्रेयांस्तदन्तात्तत्पुरुषादत् स्यात् । निःश्रेयसम् । श्वःश्रेयसम् ॥ १२२ ॥ नञऽव्ययात्सङ्ख्याया डः । ७ । ३ । १२३ । आभ्यां परो यः सङ्ख्यार्थस्तदन्तात्सत्पुरुषाड्डः स्यात् । अदशाः निस्त्रिंशः खङ्गः ॥ १२३ ॥ सङ्ख्याऽव्ययादंगुलेः । ७।३।१२४| आभ्यां परो योऽङ्गुलिस्तदन्तात्तत्पुरुषाड्डः स्यात् । द्व्यङ्गुलम् | निरङ्गुलम् ॥ १२४ ॥ बहुव्रीहेः काष्ठे टः । ७ । ३ । १२५ । काष्ठार्थादङ्गल्यन्ताद्बहुव्रीहेष्टः स्यात् । चङ्गुलं काष्ठम् । काष्ठइति किस् । पञ्चाङ्गुलिर्हस्तः ॥ १२५ ॥ सकत्थ्यऽक्ष्णः स्वाङ्गे। ७ । ३ । १२६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy