SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ स्वोषज्ञलघुवृत्तिः। ५१७ अपाण्यर्थ उपमानवाची यः श्वा तदन्तात्तत्पुरुषादट् स्यात्।आकर्षश्वः। अप्राणिनीति किम् । वानरश्वा ॥ ११२॥ पूर्वोत्तरमृगाच्च सक्थ्नः । ७।३।११३। एभ्य उपमानार्थाच परो यः सक्थिस्तदन्तात्तत्पुरुषादट् स्यात् । पूर्व सक्थम् । उत्तरसक्थम् । मृगसक्थम् । फलकसक्थम् ॥ ११३ ॥ उरसोऽग्रे। ७।३।११४। अग्रं मुखं प्रधानं वा तदर्थो य उरस्तदन्तात्तत्पुरुषादद् स्यात् । अश्वोरसं सेनायाः । अश्वोरसं कविकम् ॥ ११४ ॥ सरोऽनोऽश्माऽयसो जातिनाम्नोः।७।३।११५। . एतदन्तात्तत्पुरुषादट् स्यात् । यथासम्भवं जातावर्थे संज्ञांविषये च । जालसरसम् । उपानसम् । स्थूलाश्मः। कालायसम् । जातिनाम्नो. रिति किम् । परमसरः ॥११५॥ अहः। ७।३।११६ । अहन्नन्तात्तत्पुरुषादट् स्यात् । परमाहः ॥ ११६ ॥ संङ्ख्यातादहश्च वा।७।३।११७॥ सङ्ख्यातात्परो योऽहा तदन्तात्तत्पुरुषादद स्यात् । अह्नश्च वाह्नः। सङ्ख्याताह्नः । सङ्ख्याताहः ॥ ११७ ॥ सीशसङ्ख्याऽव्ययात् । ७।३।११८॥ सर्वादशार्थात्संख्यार्थादव्ययाच परोयोऽहा तदन्तात्तत्पुरुषादट् स्यात्। अह्रश्वाह्नः। सर्वाह्नः। पूर्वाह्नः । द्वयह्नः पटः । अत्यही कथा ॥११८॥ सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रे रत् । ७।३।११९।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy