________________
हैमशब्दानुशासनस्य ___गोस्तत्पुरुषात् । ७।३।१०५ ।
गवन्तात्तत्पुरुषादलुकोऽद् स्यात् । राजगवी।तत्पुरुषादिति किम् । चित्रगुः । अलुक इत्येव । पञ्चगुः पटः ॥ १०५॥
राजन्सखेः। ७।३।१०६। एतदन्तात्तत्पुरुषादट् स्यात् । पञ्चराजी । राजसखः॥ १०६ ॥ राष्ट्राख्याब्रह्मणः । ७।३।१०७।
राष्ट्रार्थात्परो यो ब्रह्मा तदन्तात्तत्पुरुषादट् स्यात् । सुराष्ट्रब्रह्मः । राष्ट्राख्यादिति किम् । देवब्रह्मा नारदः ॥ १०७॥
कुमहद्भयां वा । ७।३।१०८।
आभ्यां परो यो ब्रह्मा तदन्तात्तत्पुरुषादद् वा स्यात्। कुब्रह्मः। कुब्रह्मा। महाब्रह्मः । महाब्रह्मा ॥ १०८ ॥ ग्रामकोटात्तक्ष्णः। ७।३।१०९।.
आभ्यां परो यस्तक्षा तदन्तात्तत्पुरुषादद् स्यात् । ग्रामतक्षः । कौटतक्षः ॥ १०९॥
गोष्ठातेः शनः । ७।३।११०।
आभ्यां परो यः श्वा तदन्तात्तत्पुरुषादट् स्यात् । गोष्ठश्वः । अतिवो वराहः ॥११०॥ प्राणिन उपमानात् । ७।३।१११।
प्राण्यर्थादुपमानात्परो यः श्वा तदन्तात्तत्पुरुषादट् स्यात्। व्याघ्रश्वः। प्राणिनइति किम् । फलकवा ॥ १११॥
अप्राणिनि । ७।३।११२।