SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ हैमझन्दामुशासनस्य शरदादेः । ७।३। ९२। शरदायन्तादव्ययीभावादत् स्यात् । उपशरदम् । प्रतित्यदम् ॥ जराया जरस च । ७।३। ९३ । जरान्तादव्ययीभावादत् स्यात् । तद्योगे च जराया जरस् । उपजरसम ॥ ९३ ॥ सरजसोपशुनानुगवम् । ७।३।९४। एतेऽव्ययीभावा अदन्ता निपात्याः । सरजसं भुङ्क्ते । उपशुनमास्ते । अनुगवमनः ॥ ९४ ॥ जातमहहादुक्ष्णः कर्मधारयात्।७।३।९५॥ · एभ्यः परो य उक्षा तदन्तात्कर्मधारयादत् स्यात् । जातोक्षः। महोक्षः। वृद्धोक्षः । कर्मधारयादिति किम् । जातस्योक्षा जातोक्षां ॥९५ ॥ स्त्रियाः पुंसो इन्द्वाच्च । ७।३। ९६ । स्त्रियाः परो यः पुंमांस्तदन्तात् बन्दाकर्मधारयाचात् स्यात् । स्त्रीपुंसौ । स्त्रीपुंसः शिखण्डी ॥ ९६ ॥ ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाऽहोरात्ररांत्रिंदिवनतंदिवाऽहर्दिवोर्वष्ठीवपदष्ठीवाक्षिभुवदारग वम् । ७।३।९७। एते इन्द्रा अदन्ता निपात्याः। ऋक्सामे । ऋग्यजुषम् । धेन्वनडुहौ। वाङ्मनसे । अहोरात्रः । रात्रिंदिवम् । नक्तंदिवम् । अर्हार्दवम् । ऊर्वष्ठीवम् । पदष्ठीवम् । अक्षिध्रुवम् । दारगवम् ॥ ९७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy