SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञतवृत्तिः। अक्ष्णोऽप्राण्यङ्गे। ७।३। ८५ । अप्राण्यङ्गार्थादक्ष्यन्ताददन्तः स्यात् । लवणाक्षम् । अप्राग्यङ्गइति किम् । अजाक्षि ॥ ८५॥ सङ्कटाभ्याम् । ७।३।८६। आभ्यां परादयन्ताददन्तः स्यात् । समक्षम् । कटाक्षः ॥ ८६.॥ प्रतिपरोनोरव्ययीभावात्।७।३।८७। प्रत्यादिपूर्वादक्ष्यन्तादव्ययीभावादत्स्यात् । प्रत्यक्षम् । परोक्षम् । अन्वक्षम् ॥ ८७ ॥ अनः। ७।३। ८८। अनन्तादव्ययीभावादः स्यात् । उपतक्षम् ॥ ८८ ॥ नपुंसकाद्वा । ७।३।८९।। अनन्तं यत्क्लीबं तदन्तादव्ययीभावादद्वा स्यात् । उपचमम् । उपचर्म ।। ८९ ॥ गिरिनदीपौर्णमास्याग्रहायण्यपञ्चम वाद्वा ।७।३।९। एतदन्तात्पञ्चमवगवर्जवर्गान्ताचाव्ययीभावादद्वा स्यात् । अन्तगिरम् । अन्तर्गिरि । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपायहायणि । उपस्नुचम् । उपयुक् ॥ ९० ॥ संख्याया नदीगोदावरीभ्याम्।७।३।९१। सङ्ख्यार्थात्परौ यावेतौ तदन्तादव्ययीभावादः स्यात् । पञ्चनदम् । दिगोदावरम् ॥ ९१ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy