SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ५१२ हैमशब्दानुशासनस्य सङ्ख्यापाण्डूदककृष्णाद्भूमेः ।७।३।७८॥ . सङ्ख्यार्थात्पाण्ड्वादेश्च परो यो भूमिस्तदन्तादत्समासान्तः स्यात् । द्विभूमम् । पाण्डुभूमम् । उदगभूमम् । कृष्णभूमम् ॥ ७८॥ उपसगोदध्वनः । ७।३। ७९। - उपसर्गाद्धातयोग्यात्प्रादेः परादध्वनो अः समासान्तः स्यात् । प्रावो रथः ॥ ७९ ॥ समबान्धात्तमसः । ७।३।८०। एभ्यः परोयस्तमस्तदन्तादत्समासान्तः स्यात् । सन्तमसम् । अब तमसं । अन्धतमसम् ॥ ८॥ तप्तान्ववादहसः। ७।३। ८१ । तप्तादिपूर्वोयो रहस्तदन्तादः समासान्तः स्यात् । तप्तरहसम् । अनुरहसम् । अवरहसम् ॥ ८१ ॥ प्रत्यन्ववात्सामलोम्नः ।७।३।८२। एभ्यः परौ यो सामलोमानौ तदन्तादः समासान्तः स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमः। अनुलोमः। अवलोमः॥ ब्रह्महस्तिराजपल्यावर्चसः ।७।३।८३। ब्रह्मादिपूर्वावर्चसन्तादत्समासान्तः स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । राजवर्चसम् । पल्यवर्चसम् ॥ ८३ ॥ प्रतेरुरसः सप्तम्याः । ७।३।८४। प्रतिपूर्वात्सप्तम्यन्तोरसन्ताददन्तः स्यात् । प्रत्युरसम् । सप्तम्याइति किम् । प्रत्युरः ॥ ८४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy