________________
‘स्वोषज्ञलघुवृत्तिः। निन्दार्थाकिमः परं यदृगादितदन्तात्समासात् समासान्तो न स्यात् । किंधूः । किंसखा । क्षेपइति किम् । केषां राजा किंराजः ॥
नञ्तत्पुरुषात् । ७।३। ७१ ।
अस्मात्समामान्तो न स्यात् । अनृक् । अराजा । तत्पुरुषादिति किम् । न विद्यते धूरस्याधुरं शकटम् ॥ ७१ ।।
पूजास्वतेः प्राक्टात् । ७।३।७२।
पूजार्थस्वतिभ्यां परं यहगादितदन्ताहात्माग यः समासान्तः स न स्यात् । सुवूः । अतिधूरियम् । पूजेति किम् । अतिराजोरिः । प्रागटादिति किम् । स्वङ्गुलं काष्ठम् ॥ ७२ ॥
बहोर्डः । ७।३। ७३ । डस्य प्राप्तिर्यतस्ततः समासान्तोड कच्च न स्यात् । उपबहवो घटाः। डइति किम् । प्रियबहुकः ॥ ७३ ॥
इच युद्धे । ७।३ । ७४। युद्धे यः समास उक्तस्तस्मादिच समासान्तः स्यात् । केशाकेशि ॥ द्विदण्ड्यादिः । ७।३। ७५। एते इजन्ताः साधवः स्यु । द्विदण्डि हन्ति । उभादन्ति ॥ ७५॥ ऋकपः पथ्यपोऽत् । ७।३। ७६ ।
ऋगाद्यन्तात्समासादात् समासान्तः स्यात् । अर्द्धर्चः । त्रिपुरम् । जलपथः । द्वीपम् ॥ ७६ ॥
धुरोऽनक्षस्य । ७।३।७७। धुग्न्तात्समासादत् समासान्तः स्यात् । चेन्बूर्नाक्षस्य । राजधुरा । अनक्षस्येति किम् । अक्षधूः ॥७७॥