SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य । वृकाट्टेण्यण । ७ । ३ । ६४ । वृकादशस्त्र जीविसंघार्थात स्वार्थे टेण्यण द्रिः स्यात् । वार्केण्यः॥ ६४ ॥ यौधेयादेरन । ७ । ३ । ६५ । एम्यः शस्त्रजीविसंघार्थेभ्योऽज्ञ दिः स्यात् । यौधेयः । घातें - यः ॥ ६५ ॥ ५१० पर्श्वादेरण । ७ । ३ । ६६ । एभ्यः शास्त्रजीविसंघार्थेभ्यो स्वार्थेऽण् द्रिः स्यात् । पार्शवः । राक्षसः ॥ ६६ ॥ दामन्यादेरीयः । ७ । ३ । ६७ । एभ्यः शस्त्रजीविसंघार्थेभ्यः स्वार्थे ईयो दिः स्यात् । दामनीयः ॥ औलपीयः ॥ ६७ ॥ शुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजितो गोत्रेऽणो यञ् । ७।३।६८ । एभ्यो गोत्राऽणन्तेभ्यः स्वार्थे यञ् द्रिः स्यात् । श्रौमत्यः । शामीवत्यः । शैखावत्यः । शालावत्यः । और्णावत्यः । वैदभृत्यः । अभिजित्यः ॥ ६८ ॥ समासान्तः । ७ । ३ । ६९ । अतः परं विधास्यमानं समासस्यावयवः स्यात् । ततस्तस्य तत्तत् समाससंज्ञा । सुजम्भे सुजम्भानौ स्त्रियौ । उपधुरम् । द्विधुरी । खत्वचिनी ॥ ६९ ॥ न किमः क्षेपे । ७ । ३ । ७० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy