________________
५०८
हैमशब्दानुशासनस्य वत्सोक्षावर्षभाद् ह्रासे पित् ।७।३॥५१॥ • एभ्यः स्वप्रवृत्तिहेतोहसे गम्ये तर पित् स्यात् । वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः ॥ ५१ ॥ वैकादद्वयोर्निर्हार्ये डतरः।७।३।५२ ।
एकाद्वयोरेकस्मिन् निर्झर्येऽर्थे डतरोवा स्यात् । एकतरः एकको वा भवतोः कठः पटुर्गन्ता चैत्रो दण्डी वा ॥ ५२ ॥
यत्तत्किमन्यात् । ७।३।५३ ।
एभ्यो द्वयोरेकस्मिन्निार्येऽर्थे वर्तमानेभ्यो डतरः स्यात् । यतरो भवतोः कठादिस्ततर आगच्छेत् । एवं कतरः। अन्यतरः ॥५३ ॥ बहूनां प्रश्ने डतमश्च वा।७।३।५४॥
यदादिभ्यो बहुनां मध्ये निद्धार्यार्थेभ्यः प्रश्ने डतमोडतरश्च वा स्यात् । यतमो यतरो वा भवतां कठस्ततरस्ततमोवा यातु । एवं कतमः। कतरः। अन्यतमः। अन्यतरः पक्षे यको यो वा। सकः स वा भवतो कठइत्यादि ॥ ५४ ॥
वैकात् । ७।३। ५५ । एकादहुनां मध्ये नि यार्थात् डतमो वा स्यात् । एकतमः । एककः । एको वा भवतां कठः ॥ ५५ ॥ तात्तमबादेश्चानत्यन्ते । ७।३।५६ ।
कान्तात्केवलात्तमबाद्यन्ताच्चानत्यन्तार्थात्कप् स्यात् । अनत्यन्तं भिन्न भिन्नकम् । भिन्नतमकम् । भिन्नतरकम् ॥ ५६ ॥
न सामिवचने । ७।३। ५७।