SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ५०७ अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात्सन्ध्यक्षरस्वरादूर्द्ध तेन सन्ध्यक्षरेण सहलुक् स्यात् । कुबियः । कुहिकः ॥ ४२ ॥ शेवलाद्यादेस्तृतीयात् । ७ । ३ । ४३ । शेवलादिपूर्वपदस्य नृनाम्नोऽनुकम्पार्थे खरादौ प्रत्यये तृतीयात् स्वरादूर्द्ध लुक् स्यात् । शेवलियः । सुपरियः ॥ ४३ ॥ क्वचितुर्यात् । ७ । ३ । ४४। अनुकम्पोत्पन्ने स्वरादौ प्रत्यये यथालक्ष्यं चतुर्थात्स्वरादूर्द्ध लुक स्यात् । वृहस्पतियः । कचिदिति किम् । उपडः ॥ ४४ ॥ पूर्वपदस्य वा । ७ । ३ । ४५ । अनुकम्पार्थे स्वारादौ प्रत्यये पूर्वपदस्य लुग्वा स्यात् । दत्तियः। देवियः ॥ ४५ ॥ हस्वे । ७ । ३ । ४६ । . हूस्वार्था यथायोगं कबादिः स्यात् । पटकः । पचतकि ॥ ४६ ॥ कुटीगुण्डाद्रः । ७ । ३ । ४७। आभ्यां ह्रस्वार्थाभ्यां रः स्यात् । कुटीरः । शुण्डारः ॥ ४७ ॥ शम्या रुरौ । ७ । ३ । ४८ । अस्मात स्वार्थादेतौ स्याताम् | शमीरुः । शमीरः ॥ ४८ ॥ कुत्वा डुपः । ७ । ३ । ४९ । अस्मात् ह्रस्वार्थात् डुपः स्यात् । कुतुपः ॥ ४९ ॥ कासूगोणीभ्यां तर । ७।३।५० । आभ्यां ह्रस्वार्थाभ्यां तरद् स्यात् । कामूतरी । गोणीतरी ॥५०॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy