________________
५०५
स्वोपज्ञलघुवृत्तिः ।
अव्ययस्य को द च । ७ । ३ । ३१ । प्राग्नित्याद्येऽर्थास्तेषु द्योतेष्वव्ययस्य स्वरात्पूर्वोऽक् स्यात् । तद्योगे चाऽस्य को द् । कुत्सिताद्युच्चैः उच्चकैः । एवं धिक् । धकिद् ॥ ३१ ॥
तूष्णीकां । ७ । ३ । ३२ ।
तूष्णीमो मः प्राका इत्यन्तो निपात्यः प्रामित्यात् । कुत्सितादितूष्णीं तूष्णीकामास्ते ॥ ३२ ॥
कुत्सिताल्पाज्ञाते । ७।३।३३।
कुत्सिताद्यपाधिकार्याद्यथायोगं कबादयः स्युः । अश्वकः । पचतकि । उच्चकैः ॥ ३३ ॥
अनुकम्पातद्युक्तनीत्योः । ७।३।३४। अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं कबादयः स्युः । पुत्रकः । स्वपिषकि । पुत्रकः । एहकि । उत्सङ्गके उपविश । कर्द्दमकेनाऽसिदिग्धकः || ३४ ॥
अजातेर्नृनाम्नो बहुस्वरादियेकेल
वा । ७ । ३ । ३५ ।
मनुष्यनाम्नो बहुस्वरादनुकम्पायां गम्यायां एते वा स्युः नचेन्नृनामजात्यर्थम् । देवियः । देविकः । देविलः । देवदत्तकः । अजातेरिति किम् । महिषकः ॥ ३५ ॥
वोपादेरडाकौ च । ७ । ३ । ३६ । उपपूर्वादजात्यर्थादहुस्वरान्नृनाम्नोऽनुकम्पायामडा कावियेकेलाश्च वा ह्युः । उपडः । उपकः । उपियः । उपिकः । उपिलः । उपेन्द्रदत्तकः ॥
૬૩