SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ - ५०३ स्वोपक्षलघुवृत्तिः । लोहितान्मणौ । ७।३।१७। अस्मान्मण्यत्स्वार्थे को वा स्यात् । लोहितको मणिः। लोहितो मणिः ॥ १७ ॥ रक्तानित्यवर्णयोः । ७।३।१८। लाक्षादिरक्तार्थादनित्यवर्णार्थाच्च लोहितात्को वा स्यात् । लोहितकः पटः । लोहितकमक्षि कोपेन ॥ १८॥ . कालात् । ७।३।१९। कजलादिरकेऽनित्यवर्णे च वर्तमानात्कालात्को वा स्यात् । कालएव कालकः षटः । कालकं मुखं शोकेन ॥ १९॥ - शीतोष्णादृतौ । ७।३।२० । आभ्यामृत्वाभ्यां को वा स्यात् । शीतकः । उष्णकः ऋतुः ॥ लूनवियातात्पशौ । ७।३।२१। आभ्यां पश्वर्थाभ्यां को वा स्यात् । लूनकः। वियातकः पशुः॥२१॥ स्नाताद्वेदसमाप्तौ। ७।३ । २२ । अस्यां गम्यायां स्नातात्कः स्यात् । वेदं समाष्य स्नातः स्नातकः ॥ २२॥ तनुपुत्राणुवृहतीशून्यात्सूत्रकृत्रिमनिपुणा च्छादनरिक्त । ७।३।२३। तन्वादिभ्यो यथासंख्यं सूत्राद्यर्थेभ्यः कः स्यात् । तनुकं सूत्रम् । पुत्रकः कृत्रिमः । अणुको निपुणः । वृहतिका आच्छादनम् । शून्यको रिक्तः ॥ २३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy