SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य गुणप्रवृत्तिहेतुकात्तमप्तरपोर्विषये यथासङ्ख्यमेतौ वा स्याताम् । पटिष्ठः । पटुतमः । गरीयान् । गुरुतरः ॥ ९ ॥ 7 त्यादेश्च प्रशस्तेरूपप् । ७।३।१०। त्याद्यन्तान्नाम्नश्च प्रशस्तार्थाद्रूप स्यात् । पचतिरूपम् । दस्यु - रूपम् ॥ १० ॥ ५०२ अतमबादेरषदसमाप्ते कल्पप्पदेश्य देशी यर् । ७ । ३ । ११ । किचिदसमासार्थात्त्याद्यन्तवर्जादेते स्युः । पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् । पटुकल्पा । पटुदेश्या । पटुदेशीया ॥ ११ ॥ नाम्नः प्रागबहुर्वा । ७ । ३ । १२ । ईषदपरिसमाप्तार्थान्नाम्नः प्राग्बहुर्वा स्यात् । बहुपटुः । पटुकल्पः॥ नत मबादिः कपोऽच्छिन्नादिभ्यः । ७।३।१३। छिन्नादिवर्जाद्यः कमदन्तात्तमबादिर्न स्यात् । अयमेषामनयोर्वा प्रकृष्टः पटुकः । अच्छिन्नादिम्यइति किम् । छिन्न कतमः ॥ १३ ॥ अनत्यन्ते । ७ । ३ । १४ । अनत्यन्तार्थात्कवन्तात्तमवादिर्न स्यात् । इदमेषामनयो प्रकृष्टं छिन । भिन्नकम् ॥ १४ ॥ यावादिभ्यः कः । ७३ । १५ । स्वार्थे कः स्यात् । यावकः । मणिकः || १५ || कुमारीक्रीडने यसोः । ७ । ३ । १६। कुमारीणां यत्नं तदर्थादीयस्वन्ताच्च स्वार्थे कः स्यात् । कन्दुकः । श्रेयस्कः ॥ १६ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy