SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । अस्मिन् । ७ । ३ ।२। प्रकृतार्थादस्मिन्निति विषये मयट् स्यात् । अपूपमयं पर्व ॥ २ ॥ I तयोः समूहवच्च बहुषु । ७।३।३। प्रकृतेऽस्मिन्निति च विषययोर्बह्नर्थात्समूहइव प्रत्ययः स्यात् । मयट् च । आपूपिकम् । अपूपमयम् । अपूपास्तत्पर्व वा ॥ ३ ॥ ७।३।४। निन्द्ये पाश । निन्द्यार्थात्स्वार्थे पाशप् स्यात् । छान्दसपाशः ॥ ४ ॥ प्रकृष्टे तमप् । ७ । ३ । ५। ५०१ प्रकृष्टार्थत्तम स्यात् । शुक्लतमः । कारकतमः ॥ ५ ॥ द्वयोर्विभज्ये च तरप् । ७।३।६। द्वयोर्मध्ये प्रकृष्टे विभज्ये च वर्त्तमानात्तरप स्यात् । पटुतरा स्त्री । साङ्काश्यकेभ्यः पाटलिपुत्रका आढवतराः ॥ ६ ॥ क्वचित्खार्थे । ७ । ३।७। यथालक्ष्यं स्वार्थे तरप स्यात् । अभिन्नतरकम् । उच्चैस्तराम् ॥७ ॥ किन्त्याद्येऽव्ययादसत्वे तयोरन्त स्याम् । ७ । ३ । ८। किमस्त्याद्यन्तादेकारान्तादव्ययाच्च परयोस्तमप्तरपोरन्तस्याम् स्यात् । नचेत्तौ सत्वे द्रव्ये वर्त्तते । किन्तराम् । किन्तमाम् । पचतितराम् । पचतितमाम् । पूर्वाह्णेतराम् । पूर्वाह्णतमां भुंक्ते । अतितराम् । अतितमाम् । असत्वइति किम् । किन्तरं दारु ॥ ८ ॥ गुणाङ्गाष्ठेय । ७ । ३ ।९। ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy