SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ५०० हैमशब्दानुशासनस्थ कर्मणः सन्दिष्टे। ७।२।१६७। ___ सन्दिष्टार्थात्कर्मणः स्वार्थेऽण वा स्यात् । अन्येनान्योऽन्यस्मै यदाह वयेदं कार्य इति । तत्सन्दिष्टं कार्मणम् ॥१६७ ॥ वाच इकण । ७।२।१६८। सन्दिष्टार्थात् स्यात् । वाचिकं वक्ति ॥१६८॥ विनयादिभ्यः। ७।२।१६९। स्वार्थे इकण वा स्यात् । वैनयिकम् । सामयिकम् ॥ १६९ ॥ उपायाद् ह्रस्वश्च । ७।२।१७० । स्वार्थे इकण वा स्यात् । तद्योगे च हव। औपयिकम् ॥१७॥ मृदस्तिकः । ७।२।१७१ । स्वार्थे वा स्यात् । मृत्तिका । मृत् ॥ १७१ ॥ सस्नौ प्रशस्ते । ७।२।१७२। प्रशस्तार्थान्मृदः सस्नौ वा स्याताम् । मृत्सा । मृत्स्ना ॥१७३॥ इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ अर्हम् प्रकृते मयट । ७।३।१। .. प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । तदर्थात्स्वार्थे मयट् स्यात् । अन्नमयम् । पूजामयम् ॥ १॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy