________________
स्वोपज्ञलनुवृत्तिः। एभ्यः स्वार्थे धेयो वा स्यात् । नामधेयम् । रूपधेयम् । भागधेयम् ॥ मादिभ्यो यः । ७।२।१५९। एभ्योयः स्यात् । मर्त्यः। सूर्यः ॥ १६९ ॥ नवादीनतनत्नं च न चास्य।७२।१६०॥
नवात्स्वार्थे एते यश्च वा स्युः। तद्योगे च नवस्य नूः। नवीनम् । नूतनम् । नूनम् । नव्यम् ॥ १६० ॥
प्रात्पुराणे नश्च । ७।२।१६१। पुराणात्यात नईनतननाश्च स्युम प्रणम् । प्रीणम् । प्रतनम् । प्रत्नं पुराणम् ॥ १६१॥
देवात्तल् ।७।२।१६२। स्वार्थे वा स्यात् । देवता ॥ १६२॥
होत्राया ईयः।७।२।१६३ । स्वार्थे वा स्यात् । होत्रीयम् ॥ १६३॥ भेषजादिभ्यष्ट्यण । ७।२।१६४। स्वार्थे वा स्यात् । भैषज्यम् । आनन्त्यम् ॥ १६४ ॥ प्रज्ञादिभ्योऽण । ७।२।१६५। स्वार्थेऽश वा स्यात् । प्राज्ञः। वाणिजः ॥ १६५ ॥ श्रोत्रौषधिकृष्णाच्छरीरभेषज
मृगे।७।२।१६६। एभ्यो यथासङ्ख्यं शरीराद्यर्थेभ्यः स्वार्थे ऽण वा स्यात् । श्रौत्रं वपुः । औषधं भैषजम् । काष्र्णो मृगः ॥ १६६ ।।