________________
४९८
हैमशब्दानुशासनस्य सङ्ख्यैकार्थीम्यां कारकार्थीभ्यां वीप्सायां द्योत्यमानायां शस्खा स्यात् । एकैकमेकशोवा दत्ते । माषमाषं माषशो वा देहि । संस्कार्थादिति किम्। माषौ माषौ दत्ते । वीप्सायामिति किम् । द्वौ दत्ते ॥१५१॥ सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल्लुक्
- च । ७।२।१५२।। सङ्ख्यार्थादवयवात्परे ये पादादयस्तदन्तादाने दण्डे वीप्सायां च विषये ऽकल् स्यात् । तद्योगे च प्रकृतेरन्तस्य लुक् । द्विपदिकां दत्ते दण्डिनो मुंक्त वा । एवं द्विशतिकाम् ॥ १५२॥ तीयाट्टीकण न विद्या चेत् । ७।२।१५३।
तीयान्तादविद्यार्थात् स्वार्थे टीकण वा स्यात्। द्वितीयम्। दैतीयीकम्। विद्या तु द्वितीया ॥ १५३ ॥ निष्फले तिलापिञ्जपेजौ।७।२।१५४॥
निष्फलात्तिलादेतौ स्याताम् । तिलपिञ्जः । तिलपेजः ॥१५॥ प्रायोऽतोयसटमात्रट् ।७।२।१५५।
अत्वन्तात्स्वार्थे एतौ स्याताम् । यथालक्ष्यम् । यावद्वयसम् । यावन्मात्रम् ॥ १५५ ॥ वर्णाऽव्ययात् स्वरूपे कारः।७।२।१५६।
एभ्यः स्वरूपाथेम्यः कारो वा स्यात् । अकारः। ॐकारः। स्वरूप. इति किम् । अः विष्णुः ॥ १५६ ॥
रादेफः।७।२।१५७ । वा स्यात् । रेफः । प्रायोऽधिकाराद्रकारः ॥ १५७॥ नामरूपभागाद्धयः ।७।२।१५८ ।