SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः। तदनुकरणार्थादनेकस्वरादनितिपरात्कृम्वस्तियोगे डाज्वा स्यात् । द्विश्चास्य प्रकृतिः। पटपटा करोति भवेत् स्यादा। अनेकस्वरादिति किम् । खाट्करोति। अनिताविति किम् । पटिति करोति ॥ १४५॥ इतावतो लुक् । ७।२।१४६। अव्यक्तानुकरणस्यानेकवरस्य योऽदिति तस्येतिशब्दे लुक् स्यात् । पटिति ॥ १४६॥ ' न द्वित्वे । ७।२।१४७। अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे सति इतौ परेऽतो लुम स्यात् । पटत्पटदिति ।। १४७॥ तो वा।७।२।१४८। द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यातस्तो लुग्वा स्यात् । पटत्पटेति करोति । पटत्पटदिति वा ॥ १४८॥ ... डाच्यादौ । ७।२।१४९। ___ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सत्यायतस्तो. डाचि लुक् स्यात् । पटपटा करोति। आदाविति किम्। पतपता करोति ।। बहुल्पार्थात्कारकादिष्टानिष्टेप्शस्।७२।१५० बह्वल्पार्थाभ्यां कारकवाचिभ्यां यथासङ्ख्यमिष्टेऽनिष्टे च विषये शस् पिद्धा स्यात् । इष्टं प्राशित्रादि । अनिष्टं श्राद्धादि । ग्रामे बहवो बहुशो वा ददाति । एवं भूरिशः। अल्पमल्पशो वा धनं दत्ते श्राद्धे । एवं स्तोकशः । इष्टानिष्टइति किम् । बहु दचे श्राद्धे । अल्पं पाशित्रे॥ संख्यैकार्थाद्वीप्सायां शस्।७।२।१५१।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy