________________
४९६
हैम शब्दानुशासनस्य
निष्पत्रा करोति । अतिव्यथनइति किम् । सपत्रं करोति तरं सेकः ॥
निष्कुलान्निष्कोषणे । ७ । २ । १३९।
अस्मात्कग्योगे निष्कोषणेऽर्थे डाच् स्यात् । निष्कुला करोति दाडि. मम् । निष्कोषणइति किम । निष्कुलं करोति शत्रुम् ॥ १३९ ॥
प्रियसुखादानुकूल्ये । ७ । २ । १४० ।
आभ्यां कृग्योगे आनुकूल्ये गम्ये डाच् स्यात् । प्रिया करोति । सुखा करोति गुरुम् । आनुकूल्य इति किम् । प्रियं करोति साम । सुखं करोति पौषधव्रतम् ॥ १४०॥
दुःखात्प्रातिकूल्ये । ७ । २ । १४१ ।
दुःखात्प्रातिकूल्ये गम्ये कृग्योगे डाच् स्यात् । दुःखा करोति शत्रुम् । प्रातिकूल्यइति किम् । दुःखं करोति रोगः ॥ १४१ ॥
शूलात्पाके । ७ । २
१४२ ।
। शूलात्पाके गम्ये कृग्यांगे डाच स्यात् । शूला करोति मांसम् ॥ १४२ ॥ सत्यादशपथे । ७ । २ । १४३ ।
अशपथार्थात्सत्यात्कृग्योगे डाच् स्यात् । सत्या करोति वणिग भाण्डम् । अशपथइति किम् । सत्यं करोति शपथमित्यर्थः ॥ १४३ ॥ मद्रभद्राइपने । ७ । २ । १४४ ।
. आभ्यां मुण्डने गम्ये कृरयोगे डाच् स्यात् । मद्रा करोति । भद्रा करोति नापितः । वपनइति किम् । मंदं करोति । भद्रं करोति साधुः ॥
अव्यक्तानुकरणादनेकस्वरात्कुभ्वस्तिना अनितौ द्विश्च । ७ । २ । १४५ ।