SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। तत्राधीने। ७।२।१३२ । तत्रेति ड्यन्तादायत्तेऽर्थे कृम्वस्तिसम्पद्योगे सात्स्यात् ।राजसात्करोति । राजसाद्भवति । राजसात्स्यात् । राजसात्सम्पद्यते ॥ १३२ ॥ देये त्रा च ।७।२।१३३। ङयन्ताद्देयेआयत्तेर्थे कृम्वस्तिसम्पद्योगे त्रा स्यात् । देवत्रा करोति द्रव्यम् । देवत्रा भवेत् स्यात् सम्पद्यते वा। देयइति किम् । राजसात्स्यात् राष्ट्रम् ॥ १३३ ॥ सप्तमीद्वितीयाद्देवादिभ्यः ।७।२।१३४। एभ्यो ङ्यमन्तेभ्यः स्वार्थे वा स्यात् । देवत्रा वसेत् भवेत्स्यात् करोति वा । एवं मनुष्यत्रा ॥ १३४॥ तीयशम्बबीजात्कृगा कृषौ डाच्।७।२।१३५। तीयान्ताच्छम्बबीजाभ्यां च कृग्योगे कृषि विषये डाच् स्यात् । द्वितीया करोति । शम्बा करोति। बीजा करोति क्षेत्रम् । कृषाविति किम्। द्वितीयं पदं करोति ॥ १३५॥ सङ्ख्यादेर्गुणात् । ७।२।१३६ । सङ्गयाः आद्यवयवात्परो यो गुणस्तदन्तात्कृग्योगे कृषि विषये डाच् स्यात् । द्विगुणा करोति क्षेत्रम् ॥ १३६ ॥ समयाद्यापनायाम् ।७।२।१३७। अस्मात्कालक्षेपे गम्ये कृग्योगे डान् स्यात् । समया करोति कालं क्षिपतीत्यर्थः ॥ १३७॥ सपत्रनिष्पत्रादतिव्यथने। ७।२।१३८ । • आभ्यां करयोगेऽतिपीडने गम्ये डाच स्यात् । सपत्रा करोति मृगम्।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy