________________
४९४
हैमशब्दानुशासनस्य कर्मार्थात्कृगा योगे कर्थाच स्वस्तियोगे पागभूततद्भावे गम्ये च्विः । स्यात् । शुक्लीकरोति पटं । शुक्लीभवति । शुक्लीस्यात् पटः । प्रागिति किम् । अशुक्लं शुक्लं करोत्येकदा ॥ १२६ ॥
अरुर्मनश्चक्षुश्चेतोरहोरजसां लुक्
च्वौ । ७।२।१२७ । एषां च्वाबन्तस्य लुक् स्यात् । अरूस्यात् । महारूस्यात् । उन्मनीस्यात् । चक्षुस्यात् । चेतीस्यात् । रहीस्यात् । रजीस्यात् ॥ १२७ ॥ इसुसोर्बहुलम् । ७।२।१२८ ।
इसुसन्तस्य च्वौ बहुलं लुक् स्यात् । सीकरोति नवनीतम् । धनस्यादंशः। न च भवति सपिर्भवति । धनुर्भवति ॥ १२८॥ व्यञ्जनस्यान्तईः।७।२।१२९ ।
व्यञ्जनान्तस्य च्वौ बहुलमीरन्तः स्यात् । दृषदीभवति शिला । नच भवति दृषद्भवति शिला ॥ १२९ ॥
व्याप्तौस्सात् ।७।२।१३०॥ कृम्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वइति विषये सादिः सात्स्यात व्याप्तौ प्रागतत्तत्त्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । अनिसात् काष्ठं करोति । अमिसाद्भवति । अग्निसात् स्यात् ।। १३०॥
जातेः सम्पदा च । ७।२।१३१ ।
कृभ्वस्तिभिः सम्पदाच योगे कृरकर्मणो म्वस्तिसम्पत्कर्तुश्च प्रागतत्त्वेन सामान्यस्य व्याप्तौ स्सात् स्यात् । अस्यां सेनायां सर्व शस्त्रमग्निसात्करोति दैवम् । एवममिसाद्भवति । अग्निसात् स्यात् । अग्निसात्सम्पद्यते ॥१३१॥