________________
हैमशब्दानुशासनस्य
श्रीर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उत् स्यात् । भ्रुवौ । आप्नुवन्ति । संयोगादित्येव । चिन्वन्ति ॥ ५३ ॥ स्त्रियाः । २ । १ । ५४ ।
स्त्रिया वर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । स्त्रियौ । अतिस्त्रियौ ॥ वाम्शसि । २ । १ । ५५ ।
४८
स्त्रिया इवर्णस्याम्सोः परयोरिय् वा स्यात् । स्त्रियं स्त्रीम् । स्त्रियः स्त्रीः || ५५ ॥
योऽनेकस्वरस्य । २ । १ । ५६ ।
अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् । चिच्युः । निन्युः । पतिमिच्छति पत्यि ॥ ५६ ॥
स्यादौ वः । २ । १ । ५७ ।
अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वसु मिच्छन्तौ वस्वौ । स्यादाविति किम् । लुलुवुः ॥ ५७ ॥
क्विवृत्तेरसुधियस्तौ । २ । १ । ५८ ।
किन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तौ य व इत्येतौ स्याताम् । उन्न्यौ । ग्रामण्यौ । सुवः । खलप्वः । क्किबिति किम् । परमौनिया परमनियौ । वृत्तेरिति किम् । नियौ कुलस्य । असुधिय इति किम् | सुधियः || ५८ ॥
दृन्पुनर्वर्षाकारैर्भुवः । २ । १ । ५९ ।
नादिभिः सह या किव्वृत्तिस्तत्सम्बन्धिनएत्रभुवोधातोरुखर्णस्य स्वरादौ स्यादौ परे वः स्यात् । दृन्भ्वौ । पुनर्ध्वो । वर्षाभ्वः । कारम्बः । दृनादिभिरिति किम् । प्रतिभुवौ ॥ ५९ ॥