________________
स्वोपज्ञलघुवृत्तिः
मादुवर्णोऽनु । २ । १।४७।
अदसो मः परस्य वर्णस्य उवर्णः स्यात् । अनु पश्चात्कार्यान्तरेभ्यः । अमुम्। अमू । अमुमुयङ्। अन्विति किम् । अमुष्मै । अमुष्मिन् ॥४७॥ प्राणिनात् । २ । १ । ४८ ।
1
४७
अदसो मः परस्य वर्णस्येनादेशात् प्राक् उवर्णः स्यात् । अमुना | इनादिति किम् | अमुया ॥ ४८ ॥
1
बहुष्वेरीः । २ । १ । ४९ ।
वृत्तेर सोमः परस्य एत ईः स्यात् । अमी । अमीषु । एरिति किमू । अमूः स्त्रियः । मादित्येव । अमुके ॥ ४९ ॥
धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये । २। १ । ५०
धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यमियुवौ स्याताम् । नियौ । लुवौ । अधीयते । लुलुवुः । प्रत्यये इति किम् । न्यर्थः । ल्वर्थः । नयनम् । नायकः । इत्यादौ परत्वाद्गुणवृद्धी ॥ ५० ॥ इणः । २ । १ । ५१ ।
धातोः स्वरादौ प्रत्यये परे इय् स्यात् । यापवादः । ईयतुः । ईयुः ॥ ५१ ॥
संयोगात् । २। १ । ५२ ।
धातोरिवर्णोवर्णयोः संयोगात्परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् । यवक्रियौ । कटवौ । शिश्रियः ॥ ५२ ॥
भ्रूश्नोः । २ । १ । ५