SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४७८ हैमसम्मानुशासनमा । अस्मान्मत्वर्थे इकेनौ स्याताम् । मनुश्च । तद्योगे चास्याशीर्षः । अशीर्षिकः । अशीर्षी । अशीर्षवान ॥७॥ अर्थार्थान्ताभावात् । ७।२।८। अर्थादर्थान्ताच्च भावार्थादेव मत्वर्थे इकेनावेव स्याताम् । अर्थिकः। अर्थी । प्रत्यर्थिकः । प्रत्यर्थी मतुर्न स्यात् भावादिति किम् । धनार्थान मतुरेव अर्थवान् ॥ ८॥ व्रीह्यर्थतुन्दादेरिलश्च ।७।२।९। आभ्या मत्वर्थे इल इकेनौ च स्युः। शालिलः । शालिकः । शाली। शालिमान् । तुन्दिलः । तुन्दिकः । तुन्दी । तुन्दिवान् । उदरिलः । उदरिकः । उदरी । उदरखान् ॥ ९ ॥ स्वाङ्गाद्विवृद्धाते । ७।२।१० अस्मान्मत्वर्थे इलेकेनाः स्युः। कर्णिलः। कर्णिकः । कर्णी। कर्णवान्॥ वृन्दादारकः। ७।२।११।। मत्वर्थे स्यात् । वृन्दारकः । वृन्दवान् ॥ ११॥ शृङ्गात् । ७।२।१२। मत्वर्थे आरकः स्यात् । शृङ्गारकः । शृङ्गवान् ॥ १२ ॥ फलबहाच्चेनः । ७।२।१३। आभ्या शृङ्गाच मत्वर्थे इनः स्यात् । फलिनः । फलवान् । बर्हिणः। शृङ्गिणः ॥ १३ ॥ मलादीमसश्च । ७।२।१४। मलान्मत्वर्थे ईमसइनश्च स्यात् । मलीमसः । मलिनः। मलवान् ॥ र मरुत्पर्वणस्तः । ७।२।१५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy