________________
स्वोपालघुवृत्तिः।
अर्हम् । तदस्याऽस्त्यस्मिन्निति मतुः।७।२।।
तदिति स्यन्तादस्यति षष्ठ्यर्थे स्मिन्निति ड्यर्थे वा मतुः स्यात् । चेत् स्यन्तमस्तीति । गोमान । वृक्षवान गिरिः । अस्तीति किम् । गावोऽस्यासन् । इतः प्रायो भूमादौ मत्वादयः ॥१॥
आयात् । ७।२।। रूपात् प्रशस्ताहतादित्यायविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः स्यात् । तदस्यास्ति । तदस्मिन्नस्तीति विषये । कुमारीमान् । व्रीहिमान् ॥२॥
नावादेरिकः।७।२।३। एम्यो मत्वर्थे इकः स्यात् । नाविकः। नौमान् । एवं कुमारिकः । कुमारीमान् ॥ ३॥
शिखादिभ्य इन् । ७।२।४। एभ्यो मत्वर्थे इन् स्यात् । शिखी । शिखावान् । माली । माला
वान् ॥ ४॥
बीह्यादिभ्यस्तौ। ७।२।५। एभ्यो मत्वर्थे इकेनौ स्याताम् । व्रीहिकः । वीही। बीहिमान । मायिकः । मायी । मायावान् ॥ ५॥
अतोऽनेकस्वरात् ।७।२।६।
अदन्तादनेकखरान्मत्वर्थे इकेनौ स्याताम् । दण्डिकः । दण्डी। दण्डवान् । छत्रिकः । छत्री। छत्रवान् । अनेकखरादिति किम् । खवान् ॥ ६॥
अशिरसोऽशीर्षश्च ।७।२।७।