SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य आभ्यामस्येत्युन्मनस्यर्थे कः स्यात् । उत्कः । उत्सुकः ॥ १९२ ॥ कालहेतुफलाद्रोगे।७।१।१९३ । कालविशेषार्थेभ्यो हेत्वर्थेभ्यः फलार्थेभ्यश्च स्यन्तेभ्योऽस्येति रोगेऽर्थे का स्यात् । द्वितीयको ज्वरः। पर्वतको रोगः। शीतको ज्वरः॥१९३॥ प्रायोऽन्नमस्मिन्नाम्नि ।७।१।१९४। स्यन्तादस्मिन्निति ड्यर्थे संज्ञाविषये कः स्यात् । स्यन्तं चेदन्नं प्रायेण । गुडापूपिका पौर्णमासी ॥ १९४ ॥ कुल्माषादण् । ७।१।१९५। अस्मात्स्यन्तात्सायोऽन्नमस्मिन्नित्यर्थेऽण स्यात् नाम्नि । कौल्माषी पौर्णमासी ॥ १९५॥ वटकादिन् । ७।१।१९६ । अस्मात्स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे इन् स्यात् । वटकिनी पौर्णमासी ॥ १९६ ॥ साक्षाद् द्रष्टा । ७।१।१९७। साक्षातो द्रष्टेत्यस्मिन्नर्थे इन् नाम्नि स्यात् । साक्षी ॥ १९७ ॥ इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः समाप्तः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy