SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ खोप लघुवृतिः । ४७५ अस्माङ्कस्यन्तादचिरोद्धृतेऽर्थे कः स्यात् नाम्नि । ब्राह्मणको नाम देशः ॥ १८४ ॥ उष्णात् । ७ । १ । १८५ । उष्णाङ्कस्यन्तादचिरोद्धृतेऽर्थे कः स्यात् नाम्नि । उष्णिका यवागूः॥ शीताच्च कारिणि । ७ । १ । १८६ । शीतोष्णाभ्यामर्थादमन्ताभ्यां कारिण्यर्थे कः स्यात् नाम्नि । शीतकोऽलसः । उष्णको दक्षः || १८६ ॥ अधेरारूढे । ७ । १ । १८७ । अधेरारूढार्थात्स्वार्थे कः स्यात् । अधिको द्रोणः खार्याः । अधिका खारी द्रोणेन ॥ १८७ ॥ अनोः कमितरि । ७ । १ । १८८ । अनोः कः स्यात् । तदन्तश्चेत्कमितरि । अनुकः ॥ १८८ ॥ अभेरीश्च वा । ७।१।१८९ । अमेः कः स्यात् ईश्वारस्य वा । तदन्तश्चेत्कमितरि । अभिकः । अभीकः ।। १८९ ॥ सोऽस्य मुख्यः । ७ । १ । १९० । स इति स्यन्तादस्येति षष्ठ्यर्थे कः स्यात् । स्यन्तं चेन्मुख्यार्थम् । देवदत्तकः सङ्घः ॥ १९० ॥ शृङ्खलकः करभे । ७ । १ । १९१ । कान्तो निपात्यः । शृङ्खलकः करभ उष्ट्र शिशुः ।। १९१॥ उदुत्सोरुन्मनसि । ७ । १ । १९२ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy