________________
हेमशब्दानुशासनस्य
पूरणप्रत्ययान्ताट्टान्ताद् ग्रन्थस्य ग्राहकेऽर्थे कः स्यात् । तद्योगे च पूरणार्थस्य लुक् । द्विकः शिष्यः ॥ १७६ ॥
४७४
ग्रहणाद्वा । ७ । १ । १७७।
गृह्यतेऽनेनेति ग्रहणम् । रूपादिग्रन्थस्य ग्रहणार्थात्पूरणप्रत्ययान्तात् कः स्वार्थे स्यात् । तद्योगे च पूरणार्थस्य लुग् वा । द्विकं द्वितीयकं
वा ग्रन्थग्रहणम् ॥ १७७ ॥
सस्याद् गुणात्परिजाते | ७|१ | १७८ । सस्याद्गुणार्थाट्टान्तात्परिजातेऽर्थे कः स्यात् । सस्यकः शालिः देशो वा । गुणादिति किम् । सस्येन परिजातं क्षेत्रम् ॥ १७८ ॥ धनहिरण्ये कामे । ७ । १ ।
१७९ ।
आभ्यां यन्ताभ्यां कामेऽर्थे कः स्यात् । धनकः । हिरण्यकः मैत्रस्य ।।
स्वाङ्गेषु सक्ते । ७ । १ ।
१८० ।
स्वाङ्गार्थेग्यो तेभ्यः सक्तेऽर्थे कः स्यात् । नखकः । केशनखकः । दन्तोष्ठकः ।। १८० ॥
उदरेत्विकणाद्यूने । ७ । १ । १८१ ।
अस्माद् ङन्तात्सक्ते आद्यूनेऽर्थे इकण स्यात् । औदरिकः । उदर कोऽन्यः ॥ १८९ ॥
अंशं हारिणि । ७ । १ । १८२ ।
अंशादमन्ताद्धारिण्यर्थे कः स्यात् । अंशको दायादः ॥ १८२ ॥
तन्त्रादचिरोद्धृते । ७ । १ । १८३ ।
1
तन्त्रात्पञ्चम्यन्तादचिरोद्धृतेऽर्थे कः स्यात् । तन्त्रकः पटः ॥ १८३ ॥ ब्राह्मणान्नानि । ७ । १ । १८४ ।