SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्ति: 1 ४७३ श्राद्धात्स्यन्तादद्यभुक्ताद्यर्थे कर्त्तर्येतौ स्याताम् । श्राद्धिकः। श्राद्धी ॥ अनुपद्यन्वेष्टा । ७ । १ । १७० । एष इन्नन्तो निपात्यते । अन्वेष्टा चेत् । अनुपदी गवाम् || १७० ॥ दाण्डाजिनिकायःशूलिकपार्श्व कम् । ७ । १ । १७१ । एते यथायोगमिकण कान्ता निपात्याः । अन्वेष्टर्यर्थे । दाण्डाजिनिको दाम्भिकः । आयःशूलिकः तीक्ष्णोपायोऽर्थान्वेष्टा । पार्श्वको अनृजूपायः स एव ॥ १७१ ॥ क्षेत्रेऽन्यस्मिन्नाश्ये इयः । ७ । १ । १७२२ क्षेत्रान्निर्देशात् ङन्तादन्योपाधिकान्नाश्येऽर्थे इयः स्यात् । क्षेत्रियोव्याधिः जारश्च ॥ १७२ ॥ छन्दोऽधीते श्रोत्रश्च वा । ७ । १ । १७३ । अस्मादमन्तादधीतेऽर्थे इयो वा स्यात् । तद्योगे चास्य श्रोत्रः । श्रोत्रियः । छान्दसः ॥ १७३ ॥ इन्द्रियम् । ७ । १ । १७४। इन्द्रादिय निपात्यः । इन्द्रस्य लिङ्गमिन्द्रियम् ॥ १७४ ॥ तेन वित्ते चञ्चुचणौ । ७ । १ । १७५ । तेनेति टान्ताद्वितेऽर्थे एतौ स्याताम् । विद्याचञ्चुः । केशचणः ॥ पूरणाद्ग्रन्थस्य ग्राहके को लुक्चाऽस्य । ७ । १ । १७६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy